Общество ревнителей санскрита

Словарь санскрита

Санскритско-русские словарные статьи: деванагари, IAST, кириллическая транслитерация и перевод.

Все словари Anki import — deck 454628379 199 Kochergina — «Учебник санскрита» 41 kosha Rung B1 demo 161 Memrise import — course 6679375 166 subhashita audio 111 Кнауэр 3169 Фриш 8156
लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥
sub-su045-lubdho
सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रे ग्रथितो हि लोकः॥
sub-su046-sukhasya
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः। अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्॥
sub-su047-bodharo
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा। सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्॥
sub-su048-svabhavo
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवति। काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम्॥
sub-su049-yasmin
संसारविषवृक्षस्य द्वे एव मधुरे फले। सुभाषितं च सुस्वादु सद्भिश्च सह सङ्गमः॥
sub-su050-samsara
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः। चित्ते वाचि क्रियायां च साधूनामेकरूपता॥
sub-su051-yatha
वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥
sub-su052-vajra
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्। अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्॥
sub-su053-vishad
अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयनिपुणम् । निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥
sub-su054-aliranu
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये। पयःपानं भुजङ्गानां केवलं विषवर्धनम्॥
sub-su055-upadesho
ये च मूढतमा लोके ये च बुद्धेः परं गताः। त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः॥
sub-su056-yecha
कोऽन्धो योऽकार्यरतः को बधिरो यो हितानि न शृणोति । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ प्रश्नोत्तररत्नमालिका
sub-su057-kondho
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते। तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥
sub-su058-purvajanma
दानेन तुल्यो विधिरस्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम्। विभूषणं शीलसमं न चान्यत्सन्तोषतुल्यं धनमस्ति नान्यत्॥
sub-su059-danenatulyo
संरोहत्यग्निना दग्धं वनं परशुना हतम्। (पाठ. रोहते सायकैर्विद्धं) वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥
sub-su060-samroha
अहो, दुर्जनसंसर्गात् मानहानिः पदे पदे । पावकः लोहसङ्गेन मुद्गरैः अभिताड्यते ॥
sub-su061-ahodurjana
माता मित्रं पिता चेति स्वभावात्त्रितयं हितम्। कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः॥
sub-su062-matamitr
विवेकः सह संयत्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥
sub-su063-vivekah
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtimicchatā ।
sub-su064-shaddosha
विद्या ददाति विनयं विनयाद्याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मस्ततः सुखम्॥
sub-su065-vidyadadati
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्। (पाठ. अविश्वस्ते) कदाचित्कुपितं मित्रं गुप्तं दोषं प्रकाशयेत्॥
sub-su066-navishva
शाठ्येन धर्मं कपटेन मित्रं परोपतापेन समृद्धिभावम्। सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनमपण्डितास्ते॥ सुभाषितसुधानिधिः śāṭhyena dharmaṃ kapaṭena mitraṃ paropatāpena samṛddhibhāvam ।
sub-su067-shathyena
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः। विचारः परमं ज्ञानं शमो हि परमं सुखम्॥
sub-su068-santoshah
कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा। प्राधान्येन मनुष्याणां सप्तैते मदहेतवः॥
sub-su069-kulam
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते। गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते॥
sub-su070-abhyasat
लोभमूलानि पापानि सङ्कटानि तथैव च। लोभात्प्रवर्तते वैरमतिलोभाद्विनश्यति॥
sub-su071-lobha
एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु। तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम्॥ (पाठ. तथा धर्मस्य वैचित्र्ये [..] पुनः)
sub-su072-ekavarna
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः। तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः॥
sub-su073-teputra
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्। (पाठ. वचसा न) मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत्॥
sub-su074-manasa
अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः। शरत्कालीनमेघास्ते नूनं गर्जन्ति केवलम्॥
sub-su075-alpa
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति। तस्य दिवाकरकिरणैर्नलिनीदलमिव विस्तारिता बुद्धिः॥
sub-su076-yahpathati
चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम्। अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व॥
sub-su077-chitteprasanne
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी। विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम्॥
sub-su078-krodho
विसृज्य शूर्पवद्दोषान्गुणान्गृह्णाति सज्जनः। दोषग्राही गुणत्यागी चालनीव हि दुर्जनः॥
sub-su079-visrjya
दुर्जनो दोषमादत्ते दुर्गन्धमिव सूकरः। सज्जनश्च गुणग्राही हंसः क्षीरमिवाम्भसः॥
sub-su080-durjano
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्। धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः॥
sub-su081-paropa
ज्ञातिभिर्वण्ट्यते नैव चोरेणापि न नीयते। (पाठ. लुण्ठ्यते) दाने नैव क्षयं याति विद्यारत्नं महद्धनम्॥
sub-su082-jnatibhi
धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च। (पाठ. तथा विद्यागमेषु च) आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥ (पाठ. सदा भवेत्)
sub-su083-dhana
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्। (पाठ. दुरधीता विषं विद्या) विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥ (पाठ. गोष्ठी दरिद्रस्य)
sub-su084-anabhyase
विद्वानेव विजानाति विद्वज्जनपरिश्रमम्। न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्॥
sub-su085-vidvaneva
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत्। इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः॥
sub-su086-paraih
अविद्यानाशिनी विद्या भावना भयनाशिनी । दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनं ॥
sub-su087-avidya
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥ - सुभाषितरत्नभाण्डागारः
sub-su088-apurvah
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्। (पाठ. गुणेष्वेवादरः कार्यः) विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥
sub-su089-guneshu
चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम्। चलाचले हि संसारे धर्म एको हि निश्चलः॥
sub-su090-chala
अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च। मधुरैः कोपमायाति कटुकेनैव शाम्यति॥
sub-su091-ahoprakrti
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूर्खैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्॥
sub-su092-mrgamrgai
शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान्। सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्॥ हितोपदेश, मित्रलाभ śāstrāṇyadhītyāpi bhavanti mūrkhā yastu kriyāvānpuruṣaḥ sa vidvān ।
sub-su093-shastra
यथा खनन्खनित्रेण नरो वार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥2–218॥ मनुसंहितायां द्वितीयोऽध्यायः
sub-su094-yatha
विषस्य विषयाणां च दूरमत्यन्तमन्तरम्। उपभुक्तं विषं हन्ति विषयाः स्मरणादपि॥
sub-su095-vishasya